Thursday, September 2, 2010

अधरं मधुरं वदनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..

वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..

गीतं मधुरं पीतं मधुरं भक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..

करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..

1 comment:

  1. aaj sri krishna janamashtmi me vrata ke sath din bhar shri vallabhacharya virachit madhurashtakam ko gungunata raha. yah nitant swantahshukhay tha.par is se mile hardik ....aatmik shukh ko apne sab dosto tak bantne se khud ko rok nahi paya .

    ReplyDelete